MIT Vedic Innovative teaching experiments at MITSVS

A

Admin

Guest
कर्नाटक-संस्कृत-विश्वविद्यालयेन “शास्त्रशिक्षणपद्धतिः – Orientation Course for Samskrit Teachers” इत्यमुं विषयम् आधृत्य जून् मासस्य द्वितीयदिनाङ्कतः एकादशदिनाङ्कपर्यन्तं (2nd June to 11th June 2021) दशदिनात्मकः आभासीयकार्यागारः आयोजितः आसीत्। तत्र च सप्तमे दिनाङ्के अस्माकं विश्वविद्यालयस्य वेद-विज्ञानविभागाध्यक्षाः श्रीमन्तः आचार्याः डॉ, साई-रामकृष्ण-सुसर्ल-महाभागाः मुख्यवक्तृरूपेण समाहूताः आसन्। तत्र अस्माकमाचार्यवर्याः “भारतीय-विज्ञानस्य आधुनिकप्रस्तुतिः प्रभावश्च” इत्यमुं विषयम् आधारीकृत्य स्वीयं चिन्तनं विदुषां पुरतः उपस्थापितवन्तः।

आचार्याणां भाषणं तावत् अधो निर्दिष्टप्रश्नान् विषयीकृत्य आसीत्।
ते च प्रश्नाः एवं सन्ति

  • संस्कृतविषयाध्ययने नूतनशिक्षणपद्धतिः किमर्थम् अपेक्षते?
  • आधुनिकजनाः संस्कृताध्ययनस्य विषये किं चिन्तयन्ति?
  • आधुनिकप्रपञ्चः संस्कृतजनेभ्यः कीदृशं विचारम् अध्ययनप्रणालिम् वा अपेक्षते?
  • संस्कृतजनैः कथम् आधुनिकविद्यार्थिनः उपसर्प्याः?
  • आधुनिकविद्यार्थिषु संस्कृतविज्ञानविषये रुच्युत्पादनार्थं MIT वेदविज्ञानविभागद्वारा के के उपक्रमाः कृताः?
  • MIT वेदविज्ञानविभागद्वारा अध्ययनार्थं के के विषयाः विद्यार्थिभ्यः उपस्थाप्यन्ते?

इतीमे प्रश्नाः उदाहरणपूर्वकम् उत्तरिताः।

आचार्यैः साईवर्यैः ये विषयाः उपस्थापिताः ते सर्वेऽपि कथम् शिक्षकाणाम् अध्यापनशैल्यां निहिताः भवितुमर्हन्ति इति अस्माकं सहायकाचार्येषु अन्यतमेन श्रीमता सूर्यनारायण-जम्मलमडकवर्येण केषाञ्चन उदाहरणानां प्रतिपादनपूर्वकं विदुषां पुरतः उपस्थापितम्।

इयं भाषणप्रस्तुतिः एकहोरात्मिका प्राचलत्। भाषणानन्तरम् अस्माकं विश्वविद्यालयद्वारा आधुनिकविद्यार्थिनाम् आकर्षणार्थं ये ये उपक्रमाः कृताः ते सर्वेऽपि कर्नाटक-संस्कृत-विश्वविद्यालस्य कुलपतिवर्यैः श्रीमद्भिः देवनाथवर्यैः एवमेव विभागाध्यक्षैः वीरनारायणपाण्डुरङ्गिवर्यैः सप्रश्रयं श्लाघिताः।

Karnataka Samskrit University, Bengaluru, organized an online workshop titled “Orientation Course for Samskrit Teachers” for 10 days from 2nd June 2021 to 11th June 2021. As part of this program, MITSVS Dean Dr. Sai Ramakrishna Susarla was invited to deliver his thoughts on “New teaching experiments at MIT” on June 7, 2021.



Dr. Sai Susarla has been at the forefront of driving innovation in teaching using Indic thought framework at SVS. The MA Sanskrit program at SVS has a completely new approach which has contemporary relevance in real time applications and he shared his thoughts on this with the august audience present at the workshop.

His talk was focused on the following questions:

  • Why the Sanskrit world needs new approaches in Sanskrit studies?
  • What the modern world feels about Sanskrit studies?
  • What the modern world expects from the Sanskrit world?
  • How modern students should be approached?
  • What MITSVS is doing to approach modern students to teach Sanskrit and create interest in Sanskrit and in a larger context, the entire field of Vedic sciences?
  • What type of courses MITSVS is offering to the modern students to pursue as part of their studies?


Later Assistant Professor at MITSVS, Shri Suryanarayana Jammalamadaka explained our approaches with some examples.

The presentation lasted an hour and drew fulsome praise for the innovative approaches adopted by MITSVS, from Vice Chancellor of KSU Prof. K E Devanathan and Dean, Prof. Veeranarayana Pandurangi.

The talk can be watched at the below link.

Continue reading...
 
Top